________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता
301
पैति वत्सैरमावास्यायामेतद्धयेतयोरायतनमुपस्तीर्यः पूर्वश्वाग्निरपरश्चेत्याहुर्मनुष्याः ॥ २२ ॥ इन्वा उप
स्तीर्णमिच्छन्ति किमु देवा येषां हिषा। पूर्णमास इति पूर्ण-मासे । व्रतम् । उपति । एति । वत्सैः । अमावास्यायामित्यमा-वास्यायाम् । एतत् । हि । एतयोः । आयतनमित्यायतनम् । उपस्तीर्य इत्युप-स्तीयः । पूर्वः । च । अग्निः । अपरः । च । इति । आहुः । मनुयाः ॥ २२ ॥ इत् । नु । वै। उपस्तीर्णमित्युपंस्तीर्णम् । इच्छन्ति । किम् । उ । देवाः । येषाम् ।
यावत् । वत्सर्वत्सानामपाकरणेन तत्कालेन सह वत्सेष्वपाकृतेष्वित्यर्थः । उक्तञ्च-वत्सं संयोगे व्रतचोदना स्यात् '* । अयञ्च सन्नयतोसन्नयतश्च कालः । 'कालस्सन्नयनपक्षे तल्लिङ्गसंयोगात् + इति ॥
अथोपस्तरणं विधातुमाह-उपस्तीर्य इत्यादि ॥ उपस्तीर्यः उपस्तरितव्यः । छान्दसः क्यप् । द#ः पूर्वद्युरेवोभावनी उपस्तृणुयात् तयोस्समीपे परितस्स्तृणुयात् । मनुष्या अपि खलूपस्तीर्णं समन्तादाच्छादितं निवासं गृहमिच्छन्ति किम्पुनर्देवाः, येषामायतनं नवावसानं नूतनाध्यवसायम् । यद्वा-अवसानं गृहम् । तेन *मी-६-४-३४.
मी-६-४०४३.
For Private And Personal