SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 255 M धीरश्चेत्ना वसुविदुग्रौस्युग्रौह५ संजातेषु भूयासमुग्रश्चेत्तो वसुविभि भूरस्यभिभूरह५ सजातेषु भूयासस-जातेषु । भूयासम् । धीरः । चेत्ता । वसुविदिति वसु-वित् । उग्रः । असि । उग्रः । अहम् । सजातेष्विति स-जातेषु । भूयासम् । उग्रः । चेता । वसुविदिति वसु-वित् । अभिभूरित्यभिभूः । असि । अभिभूरित्यभि-भूः । अहम् । सजातेष्विति स-जातेषु । भूयासम् । अभिभूरित्यभि-भूः । चेता । वसुविदिति वसु-वित् । ताः । 'समानस्य छन्दसि' इति सभावः, ‘वा जाते' इत्युत्तरपदान्तोदात्तत्वम् । धीरश्चेत्ता वसुविच्च भूयासमित्येव । धीरो धृष्टः सर्वसमर्थः । चेत्ता चेतिता ज्ञाता । छान्दस इडभावः । रथादिर्वा द्रष्टव्यः । वसुवित् धनानां लब्धा । दक्षिणम्-उग्रः उद्भू - गोंसि, उपरिष्टात्स्थितत्वात् , रुद्राणां समन्धित्वाद्वा । अधृष्य इति केचित् । अहमपि सजातेषूयो भूयासं, यथा ते ममाप्रतिवादिनो विधेया भवन्ति । उग्रश्चेत्ता वसुविद्भूयासम्, य उग्रश्चेत्ता वसु. विच्च भवति स उग्रो भूयासम्, न केवलमुग्र एव । उत्तरम्अभिभूरसि उत्तरकालभावित्वान्नान्येन परिहास्यो भव, अभिभूरेवासि नातः परं 'किञ्चित्परिधीयत इति । अहमपि सजातेष्वभिभविता भूयासं शत्रूणां तेषामेव वा । किञ्च-योभिभूश्वेत्ता वसुविच्च भवति स एव भूयासं न केवलमभिभवितृत्वमात्रण ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy