SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 248 तैत्तिरीयसंहिता का. १. प्र. ६. 2 आज्यमसि सत्यम॑सि सत्यस्याध्य क्षमसि हविरसि वैश्वानरं वैश्वदेरिषत्। आज्यम् । असि।सत्यम्।असि। सत्यस्य। अध्यक्षमित्यधि-अक्षम् । असि । हविः । असि । वैश्वानरम्।वैश्वदेवमिति वैश्व-दे॒वम् । उत्पूतशुष्मपत्' इति पूर्वोत्तरयोयुगपत्प्रकृतिस्वरत्वम् । बृहच्छब्दः प्रायेण समासे आधुदात्तः, अन्यत्रान्तोदात्तः ॥ 2-'आज्यमवेक्षते-आज्यमसीते यजुर्भिः ॥ अजेरजेर्वा [आइर्वादजेरजेर्वा क्यप् ] अग्नेः प्रापणमसि प्रियतममिति यावत् । सत्यमसि सत्यस्य फलमसि । सद्विद्यमानं फलमसि [लं वा] तदर्हति । 'छन्दसि च' इति यः । अमोघमुच्यते । ब्रह्म वा सत्यम् । तदेवासि, विश्वमूलत्वात् । सत्यस्याध्यक्षमसि सत्यं त्वयाध्यक्ष्यते । सत्यं ब्रह्म अध्यक्षस्स्वामी । सत्यस्य वा प्रत्यक्षरूपं त्वमसि । अक्षेष्वधि अध्यक्ष, अक्षाणीन्द्रियाणि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । हविरसि हविषां प्रधानमसि । सर्वप्रियतमत्वेन प्राधान्यं दर्शयितुमाह-वैश्वानरं विश्वेषां नराणां सम्बन्धीष्टसाधनत्वेन । वैश्वदेवं विश्वेषां देवानां सम्बन्धि भोज्यत्वेन होम्यत्वेन च । उत्पू - तशुष्मं उत्पवनेनोद्दीपितबलं उद्भूतबलं वा । बहुव्रीही पूर्वपदप्रकृतिस्वरत्वम्, तत्रापि ‘गतिरन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सत्यौजाः सत्यबलं, न केवलं त्वमेव सत्यं अपि तु त्वद्बलमपि सत्यमिति भावः । छान्दसो लिङ्गव्यत्ययः । ईदृशं हविस्त्वमसीति हविषः* प्राधान्यं गम्यते ॥ *क. म-हविभिः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy