SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. 1.] भभास्करभाष्योपेता षष्ठः प्रपाठकः. हरिः ओम् ॥ सं त्वा सिञ्चामि यजुषा प्र॒जामायुर्धनं च। बृहस्पति प्रसूतो यजमान इह मा रिषत् । 'समिति । त्वा । सिञ्चामि । यर्जुषा । पूजामिति प्र-जाम् । आयुः । धनम् । च । बृहस्पतिप्रसूत इति बृहस्पति-प्रसूतः। यज॑मानः। इह । मा। अथ षष्ठः प्रपाठकः. अथ प्राजापत्यमेव काण्डं याजमानम् । तत्राज्यसान्नाययोस्स्कनस्य स्वधां सम्भरति-सं त्वेत्यनुष्टुभा ॥ संसिञ्चामि सह सिञ्चामि हे स्कन्न त्वां प्रजामायुर्धनञ्च प्रजादिभिस्सह त्वामेकत्र सिञ्चामि यजुषानेन मन्त्रेण । यजनसाधनं यजुः । अपेतस्कन्नत्वदोषं प्रजादिसाधनं त्वामनेन सेचनेन कंरोमीत्यर्थः । बृहस्पतिप्रसूतः स्वयमेव बृहस्पतिना प्रसूतोनुज्ञातोहं करोमि, न पुनर्यथारुचि* । तस्माद्यजमान इहास्मिन् स्कन्नापराधे मा रिषत् मा बाधि । रिष्यतेश्छान्दसोङ् पुषादिर्वा कर्तव्यः। । बृहतां पतिः बृहस्पतिः । तद्बहतोः करपत्योः ' इति सुक् । तेन प्रसूत इति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र च ' उभे वनस्पत्यादिषु युग__*म-र्यथाकुपितः अत्र " इह केचित् रिष हिंसायां चेति पठन्ति. 'न रिध्यति न व्यथते' इत्यादयश्च प्रयोगा दृश्यन्ते । आत्रेयमैत्रेयादयस्तु न पेतुः” इति दिवाद्यन्तर्गतरुषधातुप्रकरणगता धातुवृत्तिरनुसन्धेया । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy