SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता 239 Vvvvv श्वस्य वाजिनः । सुरभि नो मुखा करत्मण आयूषि तारिषत् । आ इति दधि-क्रावणः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः । सुरभि । नः । मुखौ । करत् । प्रेति । नः । आयूष । तारिषत्। एति। पुरोनुवाक्या-दधिक्रावण्ण इत्यनुष्टुप् ॥ दधीनि धारणसमर्थानि हवींषि काष्ठानि वा । दधातेः 'आदृगमहन' इति किन् प्रत्ययः । तानि कामति गच्छतीति दधिक्रावा अग्निः । 'अन्येभ्योपि दृश्यते' इति क्रमेर्वनिप् , 'विड्डनोरनुनासिकस्स्यात् ' इत्यात्त्वं, कदुत्तुरपदप्रकृतिस्वरत्वम् । जिष्णोर्नयशीलस्याश्वस्य व्यापकस्याश्वरूपस्य वा, अश्वो रूपं कृत्वा '* इति दर्शनात् । वाजिनोन्नवतो वेगवतो वा । ईदृशस्याग्नेरहमकार्ष करोमि, कर्मकरस्स्यामिति यावत् । करोतेश्छान्दसो लुङ् , छान्दस इकारोपजनः । स च नोस्माकं मुखा मुखानि सुरभि सुरभीणि अस्मत्सुकृतसमृद्धया समासादितसौरभ्याणि करत्करोतु । करोतेलेटि व्यत्ययेन शप् । शपो वा लुकि लेटोडागमः । छान्दसे वा लिङि ‘कमहरुहिन्यः' इत्यङ् । 'ऋदृशोङि गुणः,' 'अमाङयोगेपि' इत्यडभावः । द्वितीयाबहुवचनस्य ‘सुपां मुलुक् ' इति लुगाकारौ । नोस्माकमायूंषि च प्रतारिषत् प्रवर्धयतु । तारयतेलेटि अडागमः ; 'सिब्बहुळं लेटि' इंति सिप् । 'उपसर्गाद्बहुळम् ' इति नसो . णत्वम् ॥ "तत्रैव याज्या-आ दधिक्रा इति त्रिष्टुप् ॥ दधीनि काम *वा. ३-८-१२ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy