SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 232 'तैत्तिरीयसंहिता का. १. प्र. ५. महयनजायताग्निर्यावापृथिवी भूरिरेतसा । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । वैश्वानरस्सहसा पृष्टो द्यावापृथिवी इति द्यावा-पृथिवी । भूरिरेतसेति भूरि-रेतसा । 'पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । एति । विवेश । वैश्वानरः । सहसा । पृष्टः । अग्निः । उभा उभौ पितरा पितरौ, मातापितृस्थानीयौ वा । उभयत्रापि 'सुपां सुलुक् ' इत्याकारः । द्यावाप्रथिवी द्यावाप्टथिव्यौ । द्विवचनस्य पूर्वसवर्ण ईकारः, 'दिवो द्यावा' इति द्यावादेशः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोयुगपत् प्रकृतिस्वरत्वम् । भूरिरेतसा भूरिरेतसौ स्थावरजङ्गमात्मकबहुविकारे महयन् पूजयन् प्रकाशयन् अजायत जायते । छान्दसो लङ् । यथा खलु कश्चित्सुजातः पुत्रः मातापितरौ भूरिरेतसौ युवानौ निजजन्मनालङ्कर्वन् जायते एवमसौ जायते । इत्थं जन्मकाल एवास्य कुर्वाणस्य किन्नाम कर्म महच्छोभनं न भवतीति भावः । तस्मादीदृशोयमग्निरस्माकं जातं तमिमं पुत्रं पूतत्वतेजस्वित्वादिगुणं करोतु ॥ ** वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासी वातिपाद्य '* इत्यस्य याज्या-पृष्टो दिवीति त्रिष्टुप् ॥ अयं वैश्वा *सं• २-२-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy