SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 230 तैत्तिरीयसंहिता . का. १. प्र. ५. वतः। अग्निरुक्थेन वाहसा । ऋता वानं वैश्वानरमृतस्य ज्योतिषस्पतिपरावत इति परा-वतः । अग्निः । उक्थेन । वाहसा । ऋतानिमित्यृत-वानम् । वैश्वानरम् । ऋतस्य । ज्योतिषः । पर्तिम् । अजस्रम् । धर्मम् । स्सर्व वैश्वानराणामियमेव पुरोनुवाक्या वेदितव्या । वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । 'नरे संज्ञायाम्' इति पूर्वपदस्य दीर्घत्वम् । उत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । 'उतियूति' इति क्तिन उदात्तत्वं निपात्यते, 'उदात्तयणः' इति विभक्तरुदात्तत्वं, 'ज्वरत्वर' इत्यादिना ऊत् । स नोस्मानाप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । 'उपसर्गाच्छन्दसि' इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थनेत्यर्थः । यहा—प्राप समर्थन मार्गेण । 'वहिहाधाभ्यश्छन्दसि' इत्यसुन्, ‘णित्' इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥ " वैश्वानरं द्वादशकपालं निर्व पेद्विद्विषाणयोरन्नं जग्ध्वा' * इत्यस्य याज्या-ऋतावानमिति गायत्री ॥ ऋतावानं सत्यवन्तं यज्ञवन्तं वा वैश्वानरम् । 'छन्दसीवनिपौ' इति वनिप् , 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । ऋतस्य सत्यस्य सूर्यादेः ज्योतिषः पति *स, २-२-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy