________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता
न्पाहि सोम॑मुरुष्य रायस्समिषों
यजस्वान्तस्तै दधामि द्यावापृथिवी अन्तः । यच्छ । मघवन्निति मघ-वन्न् । पाहि । सोम॑म् । उरुष्य । रायः। समिति । इषः । यजस्व । अन्तः । ते । दधामि । द्यावापृथिवी इति
सम्प्रति सोमस्य स्वामिनं प्रार्थयते--' अन्तर्यच्छ ' इत्यादिकयाऽष्टया षट्पदया । ' अन्तरर्वन्तरिक्षम् ' इति चतुर्थः पादः, अन्य एकादशाक्षराः । ननु पुरस्तादुपयामत्वाद्यजुषानेन भवितव्यम् , यथा 'पुरस्तादुपयामा यजुषा गृह्यन्ते' * इति । नैवम् ; वृत्तिसंयोगाढचैवानया भवितव्यम् । किञ्च, पुरस्तादुपयामानानमेवास्य ऋक् लिङ्गम् ; तथा हि-'ये यजुषा गृह्यन्ते ते पुरस्तादुपयामाः कार्याः ' इति वचनप्राप्तत्वादेव पुरस्तादुपयामस्य पाठोनर्थकस्स्यात् । ऋक्वे तु 'ये ऋचा गृह्यन्ते ते उपरिष्टादुपयामाः कार्याः' इति प्राप्ते तदपवादत्वेन पुरस्तादुपयामस्य पाठो युज्यते । एष एव न्यायः 'उपयामगृहीतोसीन्द्राय त्वा बृहद्वते , इत्यत्रापि । 'आ वायो भूष शुचिपाः' इत्यादय ऋच उपरिष्टादुपयामाः पश्यन्ते । ऋचामेव हि पुरस्तादुपरिष्टाहा उपयामः पठ्यते ; यजूंषि पुनः निरुपयामान्येव पठ्यन्ते 'सुशर्मासि ' इत्यादीनि । तेषां तु वचनप्राप्तं पुरस्तादुपयामत्वम् । तत्रापि क्वचिदपवादत्वेन उपरिष्टादुपयामत्वमारभ्यते, 'मधुश माधवश्च ॥ इत्यादौ । अन्ये तु-तान्यपि पुरस्तादुपयामान्येवेत्याहुः; *सं. ६-५-१०. सं.१-४-१२. सं.१-४-४. सं.१-४-२६. पसं.१-४-१४. .
For Private And Personal