________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता
183
देवस्य धीमहि । धियो यो नः प्रचो
दयात् । सोमान स्वरणं कृणुहि वरेण्यम् । भर्गः। देवस्य । धीमहि । धियः। यः। नः। प्रचोदयादिति प्र-चोदयात् । “सोमानम् ।
पां सुलुक् ' इति षष्ठ्या लुक् । तस्य सवितुः देवस्य दाना[ देवना]दिगुणयुक्तस्य स्वभूतं तत्प्रसादलभ्यं वा अत एव वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः - तेजः अन्नं धनं वा वयं धीमहि धारयेम तस्यैव प्रसादात्तस्याधारभूता भवेम । धीङ् आधारे देवादिकः । 'छन्दसि लुङ्किटः ' इति लङि — बहुलं छन्दस्यमाङ्' इत्यडभावः । दधातेर्वा लिङ् । सर्वत्र ‘बहुलं छन्दसि ' इति शपोलुक् । कस्येत्याह-यो देवस्सवितास्माकं धियः कर्माणि प्रचोदयात् प्रचोदयेत् प्रवर्तयेत् । यद्वा-धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् प्रेरयेत् । लेव्याडागमः । तस्य सवितुरिति । यहासवितुर्देवस्य तदन्नादि धीमहि । किमित्याह—य इति । लिङ्गव्यत्ययः । यदस्माकं धियः प्रचोदयात् प्रेरयति । यहायो देवस्सविता विश्वस्य प्रसवितास्माकं धर्मादिगोचराः धियः प्रेरयति तस्य स्वभूतं वरेण्यं सर्वैर्भजनीयं भर्गः पापानां तापनं तेजो मण्डलात्मकं धीमहि मनसा धारयामः । ध्यायतेरेव वा छान्दसं सम्प्रसारणम् । एवं बोधप्रकाशाभ्यां ...समस्तस्य प्रपञ्चस्य उपकुर्वाणं श्रेयोर्थिभिर्भजनीयं सूर्यात्मना स्थितं पारमेश्वरं तेज उपास्यत्वेन उपदिश्यते ॥
18पुनरप्याहवनीयमुपतिष्ठते-सोमानमिति गायत्र्या ॥ सोमानं
For Private And Personal