SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्योपेता 175 www मानवीः । सर्वी भवन्तु नो गृहे। अम्भस्स्थाम्भो वो भक्षीय मर्हस्थ महो वो भक्षीय सहस्स्थ सहो वो अहम् । इडमजस इतीर्ड-प्रजसः । मानवीः । सर्वाः । भवन्तु । नः । गृहे । अम्भः।स्थ। अम्भः। वः । भक्षीय । महः । स्थ । महः । वः । भक्षीय । सहः। स्थ। सहः । वः । अक्षीय । ऊर्जः । स्थ । तत्वादसिच् समासान्तः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा-इडायाः प्रजायन्त इति ‘गतिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वं च ' इत्यसुन्प्रत्ययान्ताद्धातोः अन्तलोपश्चान्दसः । डिहा प्रत्ययः कर्तव्यः । मानवीमनोरपत्यभूताः । जातिविशेषस्याविवक्षितत्वात् 'मनोर्जातौ ' इति न प्रवर्तते । सर्वास्ताः सर्वा अपि गवादयः प्रजाः नः अस्माकं गृहे एतस्मिन् स्थाने भवन्तु पशुपुत्रमित्रकलत्रादिसर्वसम्पदः सदा प्रभूतास्सन्तु । 'अस्मदो द्वयोश्च' इति द्वितीये वाक्ये एकस्मिन्बहुवचनम् । यहा-पुत्रपौत्रादिसहितानामस्माकमिति वेदितव्यम् ॥ 'अम्भस्स्थेत्यादि ॥ अम्भः अदनीयमुच्यते । 'अदेर्नुम्भश्च' इत्यसुन् । अन्नमुच्यते । वाजसनेयिनां तु-' अन्धस्स्थ '* इति वा [इत्येव] पाठः । हे पशवः अन्धः स्थ भवथ । तद्धेतुत्वात्ताच्छब्द्यम् । अन्नस्य हेतवस्स्थ । तस्माद्दा 'युष्माकमम्भः क्षीराज्यादिरूपमदनीयं भक्षीय भजेयम् । भजेराशिषि लिङ् । *वाज .सं. ३-२०. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy