________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३. ]
www.kobatirth.org
भास्करभाष्यता
प्र॒यन्थ्सुव॑ः । त्रि॒शद्धाम॒ वि रोजति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्यं
Acharya Shri Kailashsagarsuri Gyanmandir
अस॑नत् । मा॒तर॑म् । पुन॑ः । पि॒तर॑म् । च॒ । प्र॒यन्निति॑ प्र॒यन् । सुवः॑ । त्रि॒शत् । धाम॑ । वीति॑ । राज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । शि॒प्रि॒ये॒ । प्रतीति॑ । अ॒स्य॒ । ब॒ह॒ । द्युभि॒रति॒ द्यु-भः ।
149
शान्तोभूत् । पितरं दिवं प्रयन् प्रकर्षेण गच्छन् सर्वतो ज्वलन् धूमज्वालाम्यामभ्रं लिहन् सुवः पितृस्थानीये दिवि स्वरतिरभूत् ॥
*ब्रा. ३-१२-९,
" तृतीया - त्रिंशदिति गायत्री || त्रिंशद्धामानि स्थानानि विराजति प्रकाशवद्भवति । उभयत्रापि वचनव्यत्ययः । त्रिंशन्मुहूर्ता उच्यन्ते । [पञ्चदशाह्नः ] पञ्चदश रात्रेः । तेषु वाक् शिश्रिये सिषेवे आश्रिता पतङ्गाय पतङ्गः आदित्यः । यथा ' ऋग्भिः पूर्वाह्ने दिवि देव ईयते ' * इति या स्तुतिलक्षणा वाक् तेषु सर्वेष्वपि मुहूर्तेषु पतङ्कं श्रिता । कर्मणि चतुर्थी । तस्मात्तादृशः महानुभावः आदित्यात्मा त्वं प्रत्यस्य प्रतिकूलं यत्प्रकृतं तवोद्वासनं तदस्य विसृज बुद्धौ मा कृथाः । 'ससाधनां क्रियामुपसर्ग आह' इति प्रतिशब्देन प्रतिकूलमुच्यते । ततः प्रसन्नो भूत्वा वह हवीप्यस्माकं द्युभिः दिनेदिने । अधिकरणानां साधकतमत्वविवक्षया तृतीया; यथा 'स्थाल्या पचति' इति । ' ऊडिदम्' इति प्राप्तस्य विभक्तयुदात्तत्वस्य ' दिवो झलू' इति प्रतिषेधः । अस्मिन्व्याख्याने तिङः परत्वाद्वहेत्यस्य निघातो दुर्लभस्स्यात् ।
For Private And Personal