________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता
77
77
ऽदब्धायोऽशीततनो पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुर न्यै पाहि दुश्चरितादविषं नः पितुं कृणु सुषदा योनि दिकया ‘अविषनः पितुं कृणु ' इति गायत्र्यैकपदया ‘सुषदा' इति यजुरन्तया ॥ हे अग्ने अदब्धायो अहिंसितजीवित । 'छन्दसीण: ' इत्युणप्रत्ययः । हे अशीततनो उष्णशरीर । ' नामन्त्रिते समानाधिकरणे' इति पूर्वस्याविद्यमानत्वनिषेधात् उभयत्राप्याष्टमिको निवातः । अद्य अस्मिन् कर्मणि क्रियमाणे मां पाहि । आमन्त्रितत्रयस्याविद्यमानत्वात् 'तिङतिङः' इति निघाताभावः । दिवः [लोकात् द्युलोकवासिभ्यो देवेभ्यः ; यथा ते कर्मापराधेन क्रुद्धा न हिंसन्ति तथा कुरु । 'अडि. दम् ' इति विभक्तेरुदात्तत्वम् । किञ्च–पाहि प्रसित्यै । प्रसितिः प्रकर्षण नाशः कर्मणोत्यन्तलोपः । स्यतेः क्तिनि, ' द्यतिस्यति ' इत्यादिना इत्वम् , ‘क्रियार्थोपपदस्य कर्मणि स्थानिनः' इति चतुर्थी । प्रसितिं निवारयितुं* मां पाहीति । व्यत्ययेन वाऽ पादाने चतुर्थी । अपदात्परत्वात् पाहीति न निहन्यते । ' तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । एवं हुरिष्टया इत्यत्रापि स्वरचतुर्थी । दुरिष्टिरेकाङ्गविकलं कर्म । यद्वा-' दुनिन्दायाम् ' इति प्रादिसमामे अत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । दुरद्मनी दुष्टा भुक्तिः अभोज्यभोजनम् । 'अदेर्मट्' इत्यनिप्रत्ययः, गतिसमासः प्रादिसमासापवादः, 'कदिकारादक्तिनः' इति ङीष् , ‘षितः । इत्युदात्तो दीर्घः, पूर्ववच्चतुर्थी, 'उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । दुश्चरितं अयथा
*ख. ग-प्रसितिमविचारयितुम,
For Private And Personal Use Only