________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. १.
माणस्य निः ॥ १७॥ वाम "महीनां पयोस्योषधीना५ रसोदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय "तेजोसि तेजोनु प्रेमग्निस्ते ' नामन्यतरस्याम ' इति वचनादत्र नाम उदात्तत्वं न भवति । तस्यैतादृशस्य ते तव अक्षीयमाणस्य निर्वामि आज्यराशेनिष्कृष्य स्थाल्यां प्रक्षिपामि । यागार्थं हि निरुत्तमक्षय्यं सम्पद्यते, अत एवमुक्तम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत्र ‘क्रियाग्रहणं च कर्तव्यम् । इति घृतस्य संप्रदानत्वात् , 'चतुर्थ्यर्थे बहुलं छन्दसि ' इति षष्ठी ॥
"पनी आज्यमवेक्षते—महीनामिति ॥ रसान्तं व्याख्यातम् । अदब्धेन तिमिरादिभिरनुपहतेन चक्षुषा त्वामवेक्षे पश्यामि, सुप्रजास्त्वाय शोभनापत्यत्वाय । 'नित्यमसिच्प्रजामेधयोः' इति समासान्तः, 'अत्वसन्तस्य च ' इति विधीयमानं दीर्घत्वं व्यत्ययेन त्वेपि भवति ॥ __ गार्हपत्येधिश्रयति-तेजोसीति ॥ तेजः उज्जुलम् । असि एधि । पञ्चमलकारे रूपम् । 'अमेध्यं वा एतत्करोति + इत्यादि ब्राह्मणम् ॥
13आहरति-तेज इति ॥ ते तव आहवनीयाख्यं तेनोनुप्रेहि अनुक्रमेण गच्छ ॥
आहवनीयेऽधिश्रयति—अग्निरिति ॥ ते तव तेजः औजुल्यं अग्निः मा विनैत् मा विनैषीत् । माङि नयते ङि, 'बहुलं *सं. १-१-१०10
ब्रिा. ३-३-४.
For Private And Personal Use Only