SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भट्टभास्करभाष्योपेता "ऋतम स्यूतसदनम स्यूतश्रीरंसि "धा असि स्वधा अस्युरू चासि ववी चासि पुरा क्रूरस्य॑ विसृपो विरफ्शिनुदादाय पृथिवीं ऋत्विजः कर्म कृण्वन्ति । यत एवं, तस्मादहमपि देवेन सवित्राऽनुज्ञात एव वेदि खनामि । ततो मम नापराध इति । कृविजिघांसायां, कविहिंसाकरणयोरित्यन्ये । 'धिन्विकृण्व्योरच' इत्युप्रत्ययः, 'अतो लोपः '। 'सवजवौ छन्दसि ' इति सव शब्दोजन्तत्वादन्तोदात्तः ॥ - 24-2 उत्तरं परिग्राहं परिगृह्णाति-ऋतमसीति ॥ हे वेदे ऋतं सत्यं यज्ञो वा त्वमसि, तदाधारत्वात् । तदेवाह ऋतसदनमसीति । ऋतस्य सदनमसि गृहमसि । ऋतवादी ऋत्विक् यजमानो यज्ञो वा सीदत्यस्मिन्नित्यधिकरणे ल्युट , कदुत्तरपदप्रकृतिस्वरत्वम् । ऋतं श्रयति साधनत्वेनेति ऋतश्रीः । 'क्विब्वचि' इत्यादिना किप् , दीर्घश्च, स एव स्वरः । दक्षिणतः पश्चादुत्तरतश्च त्रय एवैते परिग्रहे मन्त्राः । एतावती वै पृथिवी' *इत्यादि ब्राह्मणम् ॥ "समीकरोति-~-धा इति यजुरादिकया पुराङ्करस्येत्यादिकया त्रिष्टुभा चतुष्पदया ॥ दधातीति धाः । 'क्विच ' इति क्विप् । हविषामाधारस्त्वमसि । स्वधा अन्नं, स्वं पुरुषं दधातीति । ' आतोऽनुपसर्गे कः', कृदुत्तरपदप्रकृतिस्वरत्वम् । स्वधैव त्वमसि, तत्साधनत्वात् । 'ईषाअक्षादिषु च्छन्दसि प्रकतिभावमात्रं वक्तव्यम् ' इति पदयोः सवर्णदीर्घत्वाभावः । उर्वी *ब्रा. ३-२-९, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy