________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
48
'तैत्तिरीयसंहिता
[का. १. प्र. १.
शतेन पार्योऽस्मान्दृष्टि यं च वयं द्विष्मस्तमतो मा ॥ १३ ॥ मौगररुस्ते दिवं मा स्कान् "वसंवस्त्वा परि गृह्णन्तु गायत्रेण छन्दसा रुद्रास्त्वा परि गृह्णन्तु त्रैष्टुंभेन छन्दसाढत्यास्त्वा परि गृह्णन्तु जार्गतेन छन्दसा देवस्य सवितुस्सवे कर्म कृण्वन्ति वेधस
स्कन्देर्लुङि हलन्तलक्षणा वृद्धिः, 'बहुळं छन्दसि' इतीडभावः, 'झलो झलि' इति सिचो लोपः, हल्ङयादिसंयोगान्तलोपौ । 'भ्रातृव्यो वा अररुः '* इत्यादिब्राह्मणम् ॥
17वेदि परिगृह्णाति-वसव इति ॥ वसवोष्टौ । अष्टाक्षरा गायत्री । ते च गायत्रेण छन्दसा त्वां दक्षिणतः परिगृह्णन्तु । एकादश रुद्राः । एकादशाक्षरा त्रिष्टुप् । ते एकादशाक्षरेण त्रैष्टुभेन छन्दसा त्वां पश्चात्परिगृह्णन्तु । द्वादशादित्याः । ते द्वादशाक्षरेण जागतेन छन्दसा त्वामुत्तरतः परिगृह्णन्तु । 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसंख्यानम् ' इति गायत्रादिभ्यस्स्वार्थेऽणप्रत्ययः । तत्र त्रिष्टुप्जगतीशब्दाभ्यां उत्सादित्वादञ् , प्राग्दीव्यतीयत्वात्तस्योपसङ्ख्यानस्य । 'असुराणां वा इयमग्र आसीत् '* इत्यादि ब्राह्मणम् ॥
खनति–देवस्येति द्विपदया गायत्र्या ॥ सवितुः सर्वप्रेरकस्य देवस्य सवेनुज्ञायां अनुज्ञां लब्ध्वैव वेधसो विधायका
*बा.३-२-९.
For Private And Personal Use Only