________________
Shri Mahavir Jain Aradhana Kendra
372
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
हा॑ र॒यिम् । विश्वा॒ यः ॥ २९ ॥ च॒र्ष्णीर॒भ्य॑सा वार्जेषु सा॒सह॑त् ।
"
द्यु॒म्नस्य॑ । प्रा॒सहेति॑ प्र - सहा॑ । र॒यिम् । विश्वा॑ः । यः ॥ २९ ॥ चॠषणीः । अ॒भीति॑ । आ॒सा ।
पुरुषस्यास्मदमित्रभूतस्य प्रासहा प्रहसनेन तादृशमस्मदमित्रमभिभूय तदीयं रयिमस्मभ्यमाभर आहर । पह मर्षणे चौरादिकः उदात्तेत् आधृषीयः, तस्माद्भावे क्विप्, 'नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' इत्युपसर्गस्य दीर्घत्वम् । यो भवान् विश्वाश्चर्षणीः मनुष्यसेनाः अस्मद्विपक्षभूताः वाजेष्वन्नेषु निमित्तभूतेषु । उपलक्षणं चैतत् । अस्माकमन्नादिकं साधयितुं अभिसासहत् अभिभवतु । किं कुर्वन्नित्याह - आसा * आसनमात्रेणैव । आसेः क्विप्, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । सहेर्लेटि ' बहुलं छन्दसि' इति शपश्शु द्विर्वचने तुजादित्वादभ्यासस्य दीर्घत्वम् । यद्वा — गन्तात् 'लेटोडाटौ ' इत्यडागमः तुजादित्वाभावे, अजादेरभावात् ' अभ्यस्तानामादिः इत्वाद्युदात्तत्वा' अच्यनिटि ' इत्यत्र हि ' ङित्यजादौ ' इत्युक्तम् । 'अनुदात्ते च' इति तर्हि प्राप्नोति ? 'छन्दस्युभयथा' इत्यार्धधातुकत्वात् न भविष्यतीत्यदोषः । यद्वा - चुरादिण्यन्तात् ' छन्दसि लुडुङ्कटः
भावः,
इति लुङ्कङादि, वर्णव्यत्ययेनाभ्यासस्याकारः,
"
चङयन्यतरस्याम् ' इत्युपोत्तमस्योदात्तत्वम् ||
*क. ह - अभिभवितुमास.
[का. १. प्र. ३०
For Private And Personal Use Only
"