________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
334
तैत्तिरीयसंहिता
का....प्र. ३..
स्वाहा देवर सवितारै गच्छ स्वाहाहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा सोमै गच्छ स्वाहा
यज्ञं गच्छ स्वाहा छन्दा सि गच्छ । स्वाहा । देवम् । सवितारम् । गच्छ। स्वाहा । अहोरात्रे इत्यहः-रात्रे । गच्छ। स्वाहा। 'मित्रावरुणाविति मित्रा-वरुणौ । गन्छ । स्वाहा। 'सोमम् । गच्छ । स्वाहा । 'यज्ञम् । गच्छ ।
सविता देवस्सर्वस्य प्रेरकः, तेन सवित्रा प्रसूत एवास्मै प्रजाः प्रजनयति ॥
'अहोरात्रे प्रजानामाधारत्वेन जन्महेतू, 'अहोरात्रे ह्यनु प्रजाः प्र जायन्ते '* । 'अहस्सर्वैकदेश' इत्यच्समासान्तः, 'हेमन्तशिशिरावहोरात्रे' इति निपात्यते ॥
प्रजानां प्राणापानौ मित्रावरुणौ । तेन 'प्रजास्वेव प्रजातासु प्राणापानौ दधाति '* । 'देवताहन्दे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
'सोमः प्रजानां देवता, ‘सौम्या हि देवतया प्रजाः '* इति ॥
'यज्ञः प्रजानामभ्युदयकारी । तेन 'प्रजा एव यज्ञियाः करोति'* इति ॥
-
*सं ६.४.१.
For Private And Personal Use Only