________________
Shri Mahavir Jain Aradhana Kendra
332
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
वि॒दश॑ उ॒द्दिश॒स्स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ १९ ॥
[का. १.३०
दिश॑ः । वि॒दिश॒ इति॑ वि-दिश॑ः । उ॒द्दिश॒ इत्यु॑त्। दिश॑ः । स्वाहा॑ । दि॒ग्भ्य इति॑ दिक्-भ्यः । नर्मः । दिग्भ्य इति दिकू -भ्यः ॥ १९ ॥
वात॑स्या॒ष्टाविँशतिश्च ॥ १० ॥
विभेदेन सा भिद्यते, यथा — यत्रादित्य उदेति सा प्राची, यत्रास्तमेति सा प्रतीची, यत्र दृश्य* मानो गच्छति सा दक्षिणा, यत्रादृश्यमानो गच्छति सोदीची, अवाग्गता अधरा, उद्गता ऊर्ध्वत्यादि । तत्र दिक्शब्देनाविशेषात्सर्वासां ग्रहणम् । प्रदिगादयस्तु शब्दा विशेषवचनाः । या इति चाध्याहियते । अयमर्थः प्रदिगादिविशेषभिन्ना या दिशः ताभ्यो दिग्भ्यस्स्वाहा स्वाहुतोयं वसाशेषोस्तु । नमश्चास्तु ताभ्यो दिग्भ्यः । अत्र प्रधानभूताः दिशः प्राच्यादयः प्रदिशः । आस्थिता दिशः आदिशः या जन्तुभिरास्थीयन्ते । आगता वा अधोदिशो मध्यदिशश्च । विगता विविधस्वभावा दिशो विदिशः । ताः पुनर्दक्षिणपूर्वादयः कोणदिशः । उद्गता दिश उद्दिशः ऊर्ध्वदिशः । सर्वत्र ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा- प्राधान्येन दिशन्तीति प्रदिशः आगत्य दिश
* क - प्रकाश.
+ख - अधोगच्छति यत्र साधोदिक्. ग - अवाग्गता मध्या.
For Private And Personal Use Only