________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
318
तैत्तिरीयसंहिता
[का. १. प्र. ३.
. परिविष्टाः परिवेष्टारौ वो भूया
स्म ॥ १५॥ दे॒वान् । ऊवम् । शुद्धाः । वयम् । परिविष्टा इति परि-विष्टाः। परिवेष्टार इति परि-वेष्टारः। वः । भूयास्म ॥ १५॥
देवेन चतुश्चत्वारिशच्च ॥८॥
देवा भजन्ते तथा कुरुत । वहतिस्स्वरितेत् , तस्माण्ण्यन्ताल्लोटि 'बहुलं संज्ञाछन्दसोः' इति णिलुक , 'बहुलं छन्दसि ' इति शपो लुक् , ङित्यपि बहुलवचनात् वच्यादिना सम्प्रसारणम् , ढत्वादि, लोपे पूर्वस्य दीर्घोऽणः' इति दीर्घत्वम् । यहा-उहतेरनुदात्तेतः प्राप्तिकर्मणो लोटि पूर्ववच्छपो लुक् । यद्वा-देवान्प्रति उव यथेमं पशुं देवा भुञ्जते तथा ऊवं यतध्वमिति यावत् । अत्र देवानित्यत्र नकारस्य संहितायां 'आतोऽ टि नित्यं ' इति रुत्वम् , 'अत्रानुनासिकः पूर्वस्य तु वा' इत्यनुनासिकः, . अनुनासिकात्परोनुस्वारः' । वयमपि युष्माभिः परिविष्टास्सर्वतोनुप्रविष्टाः अत एव शुद्धाः युष्मदवेक्षणादियोग्याः वः युष्माकं परिवेष्टारः सर्वतः परिवेष्टारो भूयास्म अवेक्षणादिना । 'गतिरनन्तरः' इति परिशब्दे पूर्वपदप्रकृतिस्वरत्वम् । परिवेष्टुशब्दे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति तृतीये अष्टमोनुवाकः.
For Private And Personal Use Only