________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का. १. प्र. ३.
288
तैत्तिरीयसंहिता वन्देवय॒ज्याय देवस्त्वा सविता
मानक्वोषधे त्रायस्वैन स्वधिअविदम् । परः । अवरैः । तम् । त्वा । जुषे । वैष्णवम् । देवयज्याया इति देव-यज्याय । देवः। त्वा । सविता । मध्वा । अनक्तु । ओषधे । त्राय॑स्व । एनम् । 'स्वर्धित इति स्व-धिते । मा ।
विष्णुदेवत्यं, 'वैष्णवो वै देवतया यूपः '* इति । 'छन्दसि निष्टl' इत्यादिना देवयज्याशब्दो यप्रत्ययान्तो निपातितः । ' अति ह्यन्यानेति नान्यानुपैति '* इत्यादि ब्राह्मणम् ॥ __'यूपमाज्येनानक्ति-देवस्त्वेति ॥ हे वृक्ष देवस्सविता सर्वस्य प्रेरकस्त्वां मध्वा मदनीयेन मधुरेणाज्येन अनक्तु स्निग्धं करोतु । 'फलिपाटिनमिमनिजनाङ्गक्पटिनाकिधतश्च' इति मन्यतेरुप्रत्ययः, धकारश्चान्तादेशः, तत्र च उरित्यनुवर्तते । 'जसादिषु वा वचनं छन्दसि प्राङ्कौ चङयुपधायाः' इति नाभावाभावः । मधुशब्देन चाज्यमुच्यते, 'तेजसैवैनमनक्ति '* इति ब्राह्मणदर्शनात् । 'तेनो वा आज्यम् + इति ॥
उर्ध्वायं बर्हिरनूच्छ्यति-ओषधे वायस्वैनमिति ॥ हे ओषधे बहिरेनं यूपार्थ वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥
'स्वधितिना तिर्यञ्चं प्रहरति-स्वधिते मैनं हिंसीरिति ॥ हे
*सं. ६-३-३.
सं. ६-३.४.
For Private And Personal Use Only