________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.
भहमारकारमाधोपेता
288
पितृभ्य इदमहं निर्वरुणस्य पाशात्सुवरभि ॥७॥ वि ख्यैषं वैश्वानर ज्योतिरग्नै व्रतपते त्वं व्रतानां व्रत
पतिरस या मम तनूस्त्वय्यभूदिपितृ-भ्यः । इदम् । अहम् । निरिति । वरुणस्य । पाशात् । सुर्वः । अभि ॥ ७ ॥ वीति । ख्येषम् । वैश्वानरम् । ज्योतिः । अग्ने । वृतपत इति व्रत-पते । त्वम् । व्रतानाम् । व्रतपतिरिति व्रत-पतिः । असि । या । मम । तनूः । त्वयि । __ "उपनिष्क्रामति-इदमिति ॥ क्रियाविशेषणम् । निरित्युपसर्गसामर्थ्यात् गच्छामीति योग्यं क्रियापदमध्याहियते । अहं वरुणस्य पाशादिदं निर्गच्छामि । वरुणस्य पाशादिव ममेदं निर्गमनम् । शालायां बद्ध इव [बद्धस्येव स्थितस्य इदानीं निर्गमादेवमुच्यते । 'वरुणपाशादेव निर्मुच्यते '* इति ब्राह्मणम् ।। ___13आहवनीयमीक्षते-~-सुवरिति ॥ स्वर्गसाधनत्वेन स्तुतिः । विश्वेषां नराणां ज्योतिष्वं नयतीति वैश्वानरं द्योतमानमाहवनीयमाभिमुख्येन पश्यामीति । व्याख्यातम् । ख्यातेराशिषि लिङि, 'लिङ्चशिप्यङ्' 'अतो येयः ॥
"यजमानमवान्तरदीक्षां विसर्जयति-अग्ने व्रतपत इति ॥ हे अग्ने व्रतपते त्वं हि सर्वेषां व्रतानां सम्बन्धी व्रतपतिरसि *सं.६-३-२.
सिं. १-१.४.13
-
-
-
*39
For Private And Personal Use Only