SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता 183 वीरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनमसि वरु॑णस्य स्कम्भअनश्रू इति । अवीरहणावित्यवीर-हनौ । ब्रह्मचोदेनाविति ब्रह्म-चोदनौ । वरुणस्य । स्कम्भनम् । असि । "वरुणस्य । स्कम्भसर्जनमिति स्कम्भ धूर्वाही धुरस्सोढारौ धुरं वोढुं समर्थौ । 'छन्दसि सहः' इति ण्विः, पूर्ववत् षत्वम् । अनश्रू अश्रुवजितौ अखिन्नौ सन्तावागच्छतम् । 'नञ्सुभ्यां ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा—अनसि शकटे वोढत्वेन श्रुतौ विख्यातौ । क्विपि तुगभावश्चान्दसः । अनो वोढत्वन श्रितौ वा । श्रयतेः क्विपि वर्णव्यत्ययः । तुगभावश्छान्दसः । अवीरहणौ अहिंसकौ दान्तौ सन्तौ । यजुरादित्वान्न निहन्यते । ब्रह्मचोदनौ ब्रह्म अन्नं, तत्साधनत्वादिह सोम उच्यते; तस्य चोदनौ प्रस्थापयितारौ सन्तौ । कर्तरि करणे वा ल्युटि कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ . दक्षिणं युनक्ति-वरुणस्येति ॥ वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा-वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारयिता असि ॥ 1°शम्यामवगृहति-वरुणस्येति ॥ वरुणस्य सोमस्य स्कम्भनं स्कम्भः अविचलिमवस्थानं, तस्य सर्जनमुत्पादयिता चासि, वधीनत्वात् स्कम्भनस्य ॥ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy