________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.
भभास्करभाष्योपेता
169
षा परुर्गन्धस्ते कार्ममवतु माय रसो अच्युतोमात्योसि शुक्रस्ते ग्र
होभि त्यन्देव संवितारमूयोः षा । परुः । गन्धः । ते । कार्मम् । अवतु । मर्दाय । रसः । अच्युतः । अमात्यः । आस । शुक्रः। ते । ग्रहः । अभीति । त्यम् । देवम् । सवितारम् । संयुज्यताम् , प्राणा[पाना दिना* निमित्तेन मा कदाचिदपि तेन विश्लिष्टो भृत् । किश्च-परुः पर्व तच्च परुषा पर्वा सम्प्टच्यतां अङ्गच्छेदादिना कदाचिदपि तेन विश्लिष्टं मा भूत् । अपि च-यागमविघ्नेन निर्वत येमेत्येवं योयमस्माकं कामः इच्छा तं ते तव गन्धः अवतु रक्षतु उद्दीपयतु वा । मदाय देवतातृप्तये त्वदीयो रसः अच्युतो भवतु यागान्मादकरणाद्वा मा च्योष्ट । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । कस्मादेवमुच्यत इति चेत् अत आह–अमात्योसीति । अमा सहभवतीत्यमात्यः । 'अव्ययात्यप् ' ' अमेहक्वतसित्रेभ्य एव' । यज्ञस्येन्द्रस्य यजमानस्य वा सहायस्त्वमसि । किञ्च-शुक्रो हिरण्यं तव ग्रहः परिग्रहः, हिरण्येन त्वं प्राप्यसे गृह्यसे वा, सहिरण्येन पाणिना ग्रहणास्क्रयणाहा ॥
अतिच्छन्दसर्चा सोमं मिमीते-अभित्यं देवमिति । अत्यष्टिरियं षोडशाक्षरपादा, 'अर्चामि' इति द्वितीयस्यादिः, 'ऊर्ध्वा यस्य ' इति तृतीयस्य, 'हिरण्यपाणिः' इति चतुर्थस्य ॥
*ख-प्रयाणादिना.
For Private And Personal Use Only