________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-10
तैत्तिरीयसंहिता .
[का १. प्र. १.
'यज्ञस्य॑ घोषसि प्रत्युष्ट५ रक्षः प्रत्युष्टा
पाहि रक्ष । 'तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तं मड्विडोः' इति लसार्वधातुकानुदात्तत्वे यजमाने धातुस्वरः । ' तस्मात्सायं पशवः '* इत्यादि ब्राह्मणम् ॥
इति प्रथमोनुवाकः.
'अश्वपशुमसिदं वाभिमन्त्रयते—यज्ञस्येति ॥ ' चतुर्थ्यर्थे बहुळं छन्दसि' इति तादर्थे पठी । घुषेय॑न्ताच्छतरि 'छन्दस्युभयथा' इति शप आर्धधातुकत्वागिणलोपः । 'अदुपदेशात्' इति शतुरनुदात्तत्वम् । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । असिदाश्वपर्योः वस्तुत्वन विवक्षितत्वान्नपुंसकत्वम् । लिङ्गव्यत्ययो वा । बहिर्लवनहारेण मयैव शीघ्रं यज्ञं सम्पादयस्वति यज्ञार्थमाघोषयत्। असीति स्तुतिः । घोषदिति धननामेति के चित् ।। __ गार्हपत्ये प्रतितपति-प्रत्युष्टमिति ॥ केचित्तु–'प्रत्युष्टा अरातयः' इति गायत्र्येकपदा यजुरादिकेत्याहुः । रक्षेरसुनि अर्थविपर्यासः । 'क्षरमूर्छने' इत्यस्य वर्णविपर्यासो वा । यदत्र छिद्रान्वेषि रक्षस्तदनेन प्रतितपनेन प्रत्युष्टं प्रतिमुखीकृत्य दग्धमस्तु । उष दाहे । 'आदितश्च ' इति चकारादाश्वस्तादिवदिटप्रतिषेधः । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । किञ्च, अरातयोपि प्रत्युष्टास्सन्तु । रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहु
*बा. ३-२-१.
क-आघोषयन्निति वा.
For Private And Personal Use Only