________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भाभास्करभाष्योपेता
सर्ववीर एदमंगन्म देवयज॑नम्वृथिव्या विश्वे देवा यदर्जुषन्त पूर्व ऋक्सामाभ्यां यजुषा सन्तरन्तो
रायस्पोर्षण सभिषा मदेम ॥ ८॥ सर्ववीर इति सवै-वीरः। एति । इदम् । अगन्म। देवयजनमिति देव-यज॑नम् । पृथिव्याः । विधे । देवाः । यत् । अर्जुषन्त । पूर्वे । ऋक्सामाभ्यामित्यृक्साम-भ्याम् । यर्जुषा । सन्तरन्त इति संतरन्तः । रायः । पोषेण । समिति । इषा। मदेम ॥८॥
आ त्व५ हयोसि मम भोगाय भव
स्य पञ्चविशतिश्च ॥३॥
"यत्र यक्ष्यमाणो भवति तदभिप्रेतं देवयजनमधितिष्ठतिएदमिनि त्रिष्टुभा चतुष्पदया ॥ देवा इज्यन्ते अस्मिन्निति देवयजनम् । अधिकरणे न्युट् , सदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशमिदं स्थानमगन्म अगन्महि आगता वयम् । गमे ङि बहुळं छन्दसि' इति शपो लुक् । यद्वा-लुङि ' मन्ते घस' इत्यादिना प्ले क्, 'म्वोच' इति मकारस्य नकारः । कीदृशं? प्रथिव्यास्सम्बन्धि । यहा–प्रथिवीमात्रात् प्रदेशान्तरात् इदं देवयजनमागताः । 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । पुनश्च
For Private And Personal Use Only