________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमः मिश्रकव्यवहारः.
प्राप्तानन्तचतुष्टयान् भगवतस्तीर्थस्य कर्तृन् जिनान् सिद्धान् शुद्धगुणांस्त्रिलोकमहितानाचार्यवर्यानपि । सिद्धान्तार्णवपारगान् भवभृतां नेतृनुपाध्यायकान् साधून सर्वगुणाकरान् हितकरान् वन्दामहे श्रेयसे ॥ १॥
इतः परं मिश्रगणितं नाम पञ्चमव्यवहारमुदाहरिष्यामः । तद्यथासक्रमणसंज्ञाया विषमसङ्क्रमणसंज्ञायाश्च सूत्रम्
युतिवियुतिदलनकरणं सङ्क्रमणं छेदलब्धयो राश्योः । सक्रमणं विषममिदं प्राहुगणितार्णवान्तगताः ॥ २ ॥
अत्रोद्देशकः । द्वादशसङ्ख्याराशेाभ्यां सङ्क्रमणमत्र किं भवति । तस्माद्राशेर्भक्तं विषमं वा किं तु सङ्क्रमणम् ॥ ३ ॥
--
पश्चराशिकविधिः ॥ पश्चराशिकवरूपवृद्ध्यानयनसूत्रम्इच्छाराशिः खस्य हि कालेन गुणः प्रमाणफलगुणितः । कालप्रमाणभक्तो भवति तदिच्छाफलं गणिते ॥ ४ ॥
अत्रोद्देशकः। त्रिकपश्चकषटूशते पञ्चाशत्षष्टिसप्ततिपुराणाः । लामार्थतः प्रयुक्ताः का वृद्धिर्मासषटूस्य ॥ ५॥
For Private and Personal Use Only