________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्घहः व्यर्धाष्टकशतयुक्तास्त्रिंशत्कार्षापणाः पणाश्चाष्टौ ॥ मासाष्टकेन जाता दलहीनेनैव का वृद्धिः ॥ ६ ॥ षष्ट्या सद्विदृष्टा पञ्च पुराणाः पणत्रयविमिश्राः । मासद्वयेन लब्धा शतद्धिः का तु वर्षस्य ॥ ७ ॥ सार्धशतकप्रयोगे सार्धकमासेन पञ्चदश लाभः । मासदशकेन लब्धा शतत्रयस्यात्र का वृद्धिः ॥ ८ ॥ साष्टशतकाष्टयोगे त्रिषष्टिकार्षापणा विशा दत्ताः । सप्तानां मासानां पञ्चमभागान्वितानां किम् ॥ ९ ॥
मूलानयनसूत्रम्-- मूलं स्वकालगुणितं स्वफलेन विभाजितं तदिच्छायाः। कालेन. मजेल्लब्धं फलेन गुणितं तादिच्छा स्यात् ॥ १० ॥
. अत्रोद्देशकः । पञ्चाधकशतयोगे पञ्च पुराणान्दलोनमासी हौ। वृद्धिं लभते कश्चित् किं मूलं तस्य मे कथय ॥ ११ ॥ सप्तत्याः सार्धमासेन फलं पञ्चामेव च । व्यर्धाष्टमासे मूलं किं फलयोस्सार्धयोईयोः ॥ १२ ॥ त्रिकपञ्चकषटूशते यथा नवाष्टादशाथ पञ्चकृतिः । पञ्चांशकेन मिश्रा षट्सु हि मासेषु कानि मूलानि ।। १३ ॥ कालानयनसूत्रम्कालगुणितप्रमाणं स्वफलेच्छाभ्यां हृतं ततः कृत्वा । तदिहेच्छाफलगुणितं लब्धं कालं बुधाः प्राहुः ॥ १४ ॥
For Private and Personal Use Only