________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
अत्रोद्देशकः । सप्तार्धशतकयोगे वृद्धिस्त्वष्टायविंशतिरशीत्या । कालेन केन लब्धा कालं विगणय्य कथय सरवे ॥ १५ ॥ विंशतिषट्शतकस्य प्रयोगतः सप्तगुणषष्टिः । वृद्धिरपि चतुरशीतिः कथय सरवे कालमाशु त्वम् ॥ १६ ॥ षटूशतेन हि युक्ताः षण्णवतिर्दृद्धिरत्र सन्दृष्टा । सप्तोत्तरपञ्चाशत् त्रिपञ्चमागश्च कः कालः ॥ १७ ॥ भाण्डप्रतिभाण्डसूत्रम्भाण्डस्वमूल्यभक्तं प्रतिभाण्डं भाण्डमूल्यसङ्गणितम् । खेच्छाभाण्डाभ्यस्तं भाण्डप्रतिभाण्डमूल्यफलमेतत् ॥ १८ ॥
. अत्रोद्देशकः । कीतान्यष्टौ शुण्ठ्याः पलानि षड्भिः पणैः सपादांशैः । पिप्पल्याः पलपञ्चकमथ पादोनैः पणैर्नवभिः ॥ १९ ॥ शुण्ठ्याः पलैश्च 'केनचिदशीतिभिः कति पलानि पिप्पल्याः। क्रीतानि विचिन्त्य त्वं गणितविदाचक्ष्व मे शीघ्रम् ॥२०॥ .' इति मिश्रकव्यवहारे पञ्चराशिकविधिः समाप्तः ॥
वृद्धिविधानम् ॥ इतः परं मिश्रकव्यवहारे वृद्धिविधानं व्याख्यास्यामः । मूलद्धिमिश्रविभागानयनसूत्रम्-- रूपेण कालवृद्ध्या युतेन मिश्रस्य भागहारविधिम् ।
कृत्वा लब्धं मूल्यं वृद्धिर्मूलोनमिश्रधनम् ॥ २१ ॥ 1 Both M and B have the arroneous reading कश्चित् त्वशीतिभिः सच पलानि पिप्पस्याः.
For Private and Personal Use Only