________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
68
गणितसारसाहः
भत्रोद्देशकः। पचकशतप्रयोगे द्वादशमासैर्धनं प्रयुक्रे चेत् । साष्टा चत्वारिंशन्मिश्रं तन्मूलद्धी के ॥ २२ ॥ पुनरपि मूलसद्धिमिश्राविभागसूत्रम्इच्छाकालफलप्नं वकालमूलेन भाजितं सैकम् । सम्मिश्रस्य विमक्तं लब्धं मूलं विजानीयात् ॥ २३ ॥
अत्रोद्देशकः । सार्थद्विशतकयोगे मासचतुषेण किमपि धनमेकः । दत्वा मिश्रं लभते किं मूल्यं स्यात् त्रयस्त्रिंशत् ।। २४ ॥ कालवृद्धिमिश्रविभागानयनसूत्रम्मूलं स्वकालगुणितं वफलेच्छाभ्यां हृतं ततः कृत्वा। सैकं तेनाप्तस्य च मिश्रस्य फलं हि वृद्धिः स्यात् ॥ १५॥
अत्रोद्देशकः । पञ्चकशतप्रयोगे फलार्थिना योजितैव धनषष्टिः । कालः खवृद्धिसहितो विंशतिरत्रापि कः कालः ॥ २६ ॥ अर्धत्रिकसप्तत्याः सार्धाया योगयोजितं मूलम् । पश्चोत्तरसप्तशतं मिश्रमशीतिः स्वकालवृद्ध्योहि ॥ २७ ॥ व्यर्धचतुषाशीत्या युक्ता मासद्वयेन साधैन । मूलं चतुश्शतं षटत्रिंशन्मिश्रं हि कालवृद्ध्योर्हि ॥ २८ ।। मूलकालमिअविभागानयनसूत्रम्
वफलोद्धृतप्रमाणं कालचतुर्वृद्धिताडितं शोध्यम् । मिश्रकृतस्तन्मूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥२९॥
For Private and Personal Use Only