________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रैराशिकव्यवहारः गोधूमानां मानीव नयता योजनत्रयं लब्धाः। षष्टिः पणाः सघाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥
भाण्डप्रतिभाण्डस्योद्देशकः । कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः । कर्षद्वयकर्पूरं मृगनाभित्रिशतकर्षकैः कति ना ॥ ३७॥ पनसानि षष्टिमष्टभिरुपलभतेऽशीतिमातुलुङ्गानि । दशभिर्माषैर्नवशतपनसैः कति मातुलुङ्गानि ॥ ३८ ॥
जीवक्रयविक्रययोरुद्देशकः । षोडशवर्षास्तुरगा विंशतिरर्हन्ति नियुतकनकानि । दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ॥ ३९ ॥ स्वर्णत्रिशती मूल्यं दशवर्षाणां नवाङ्गनानां स्यात् । षट्त्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥ षट्कशतयुक्तनवतेर्दशमासैर्वृद्धिरत्र का तस्याः । कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ।। ४१॥
सप्तराशिक उद्देशकः। त्रिचतुर्व्यासायामौ श्रीखण्डावहतोऽष्टहेमानि । षण्णवविस्तृतिदैर्ध्या हस्तेन चतुर्दशात्र कति ।। ४२ ॥
इति सप्तराशिकः ॥
Baddhना at the end
K, M and B read हेमकर्षाः for ना.
For Private and Personal Use Only