________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्गहः द्वात्रिंशद्धस्तदीर्घः प्रविशति विवरे पञ्चभिस्सप्तमार्धेः कृष्णाहीन्द्रो दिनस्यासुरवपुरजितः सार्धसप्ताङ्गुलानि । पादेनाहोऽङ्गले द्वे त्रिचरणसहिते वर्धते तस्य पुच्छं रन्ध्र कालेन केन प्रविशति गणकोत्तंस मे ब्रूहि सोऽयम् ॥ ३१ ॥
इति गतिनिवृत्तिः ॥ पञ्चसप्तनवराशिकेषु करणसूत्रम्'लाभं नीत्वान्योन्यं विभजेत् पृथुपतिमल्पया पकया। गुणयित्वा जीवानां क्रयविक्रययोस्तु तानेव ॥ ३२ ॥
अत्रोद्देशकः । द्वित्रिचतुश्शतयोगे पश्चाशत्षष्टिसप्ततिपुराणाः । लाभार्थिना प्रयुक्ता दशमासेष्वस्य का वृद्धिः ॥ ३३ ॥ हेम्नां सार्धाशीते सव्यंशेन रद्धिरध्यर्धा । सत्रिचतुर्थनवत्याः कियती पादोनषण्मासैः ॥ ३४ ॥ षोडशवर्णककाञ्चनशतेन यो रलविंशतिं लभते । दशवर्णसुवर्णानामष्टाशीतिद्विशत्या किम् ॥ ३५ ॥
1 reuds as variations the following: . प्रकारान्तरेण सूत्रम्
सङ्क्रम्य फलं छिन्द्याल्लघुपङ्क्त्यानेकराशिका पक्तिम् ।
स्वगुणामश्वादीनां क्रयविक्रययोस्तु तानेव ॥ अन्यदपि सूत्रम्सङक्रम्य फलं छिन्द्यात् पृथुपङ्क्त्यभ्यासमरूपया पङ्कत्या ।
अश्वादीनां क्रयविक्रययोरश्वादिकांश्च सङ्क्रम्य ॥ B gives only the latter of these stan zag with the following variation in the second uarter:
पृथुपङ्क्त्यभ्यासमल्पपत्याहत्या.
For Private and Personal Use Only