________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रैराशिकव्यवहारः गतिनिवृत्तौ सूत्रम्-- निजनिजकालोद्धृतयोर्गमननिवृत्त्योर्विशेषणाजाताम् । दिनशुद्धगतिं न्यस्य त्रैराशिकविधिमतः कुर्यात् ॥ २३ ॥
अत्रोद्देशकः । क्रोशस्य पञ्चभागं मौर्याति दिन त्रिसप्तभागेन । 'वार्थी वाताविद्या प्रत्येति क्रोशनवमांशम् ॥ २४ ॥ कालेन केन गच्छेत् त्रिपञ्चभागोनयोजनशतं सा।
सङ्ख्याब्धिसमुत्तरणे बाहुबलिस्त्वं समाचक्ष्व ॥ २५ ॥ सपादहेम त्रिदिनैस्सपञ्चमैनरोऽर्जयन् व्येति सुवर्णतुर्यकम् । निजाष्टमं पञ्चदिनैदलोनितैः स केन कालेन लभेत सप्ततिम् ॥ २६ ॥
गन्धेभो मदलुब्धषट्पदपदप्रोद्भिन्नगण्डस्थलः सार्धं योजनपञ्चमं वनति यषभिर्दलोनैदिनैः । प्रत्यायाति दिनैस्त्रिभिश्च सदलैः क्रोशद्विपञ्चांशकं
ब्रूहि क्रोशदलोनयोजनशतं कालेन केनामुयात् ॥ २७ ॥ वापी पयःप्रपूर्णा दशदण्डसमुच्छ्रिताब्जमिह जातम् । अगलयुगलं सदलं प्रवर्धते सार्धदिवसेन ॥ २८ ॥ निस्सरति यन्त्रतोऽम्भः सार्धेनाहाङ्गले सविंशे दे। शुष्यति दिनेन सलिलं सपञ्चमाङ्गुलकमिनकिरणैः ॥ २९ ॥ कूर्मो नालमधस्तात् सपादपञ्चाङ्गलानि चाकृषति । सार्धेस्त्रिदिनैः पद्मं तोयसमं केन कालेन ॥ ३० ॥
'Band K read तस्मिन्काले वाधौं.
For Private and Personal Use Only