________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60
गणितसारसङ्ग्रहः . सक्रान्तौ ददता नराधिपतिना षड्भ्यो द्विजेभ्यस्सखे षट्त्रिंशत्रिशतेभ्य आशु वद किं तद्दत्तमुद्गादिकम् ॥ १७ ॥
इति त्रैराशिकः ॥ व्यस्तत्रैराशिके तुरीयपादस्योद्देशकः । कल्याणकनकनवतेः कियन्ति नववर्णकानि कनकानि । साष्टांशकदशवर्णकसगुञ्जहेम्नां शतस्यापि ॥ १८ ॥
व्यासेन दैध्येण च षट्कराणां चीनाम्बराणां त्रिशतानि तानि । त्रिपञ्चहस्तानि कियन्ति सन्ति व्यस्तानुपातक्रमाविद्वद त्वम् ॥ १९ ॥
इति व्यस्तत्रैराशिकः ॥
व्यस्तपञ्चराशिक उद्देशकः । पञ्चनवहस्तविस्तृतदैर्ध्यायां चीनवस्त्रसप्तत्याम् । द्वित्रिकरव्यासायति तच्छृतवस्त्राणि कति कथय ॥ २० ॥
व्यस्तसप्तराशिक उद्देशकः । व्यासायामोदयतो बहुमाणिक्ये चतुर्नवाष्टकरे । द्विषडेकहस्तमितयः प्रतिमाः कति कथय तीर्थकृताम् ।। २१ ॥
व्यस्तनवराशिक उद्देशकः। विस्तारदैयोदयतः करस्य षट्त्रिंशदष्टप्रमिता नवार्धा । शिला तया तु द्विषडेकमानास्ताः पञ्चकार्याः कति चैत्ययोग्याः ।। २२ ।
इति व्यस्तपश्चसप्तनवराशिकाः ।।
For Private and Personal Use Only