________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः त्रैराशिकव्यवहारः ।
त्रिलोकबन्धवे तस्मै केवलज्ञानभानवे । नमः श्रीवर्धमानाय निर्धूतारिवलकर्मणे ॥ १ ॥
इतः परं वैराशिकं चतुर्थव्यवहारमदाहरिष्यामः । तत्र करणसूत्रं यथा
त्रैराशिकेऽत्र सारं फलमिच्छासङ्गणं प्रमाणाप्तम् । इच्छाप्रमयोस्साम्ये विपरीतेयं क्रिया व्यस्ते ॥ २ ॥
पूर्वार्धोद्देशकः । दिवसैस्त्रिभिस्सपादैर्योजनषट्रं चतुर्थभागोनम । गच्छति यः पुरुषोऽसौ दिनयुतवर्षेण किं कथय ॥ ३ ॥ व्यर्धाष्टामिरहोभिः क्रोशाष्टांशं 'स्वपञ्चमं याति । पङ्गस्सपञ्चभागैर्वस्त्रिभिरत्र किं ब्रूहि ॥ ४ ॥ अङ्गलचतुर्थभागं प्रयाति कीटो दिनाष्टभागेन । मेरोमूलाच्छिखरं कतिभिरहोभिस्समामोति ।। ५ ।। कार्षापणं सपाद निर्विशति त्रिभिरहोभिरर्धयुतैः । यो ना पुराणशतकं सपणं कालेन केनासौ ॥ ६ ॥ 'कृष्णागरुसत्वण्डं द्वादशहस्तायतं त्रिविस्तारम् । क्षयमेत्यङ्गलमह्नः क्षयकालः कोऽस्य वृत्तस्य ।। ७ ।। स्वर्णैर्दशमिस्सा(द्रोणाढककुडब मिश्रितः क्रीतः । वरराजमाषवाहः किं हेमशतेन साधैंन ।। < ||
IP, K and M read स for स्व.
* B reads सत्कृष्णागरुखण्वं.
For Private and Personal Use Only