________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
56
गणितसारसङ्ग्रहः. पञ्चाप्यन्ये मत्तमयूरास्सहकारे रंरम्यन्ते मित्र वदैषां परिमाणम् ॥ ६४ ॥
इत्यूनाधिकांशवर्गजातिः ।।
अथ मूलमिश्रजातौ सूत्रम्मिश्रकृतिरूनयुक्ता व्यधिका च द्विगुणमिश्रसम्भक्ता । वर्गीकृता फलं स्यात्करणमिदं मूलाम श्रविधौ ॥ ६५ ॥
हीनालाप उद्देशकः । मूलं कपोतबन्दस्य द्वादशोनस्य चापि यत् । तयोर्योग' कपोताष्षड् दृष्टास्तन्निकरः कियान् ॥ ६६ ॥ पारावतीयसङ्घ चतुर्घनोनेऽपि तत्र यन्मूलम् । तद्द्ययोगः षोडश तद्वन्दे कति विहङ्गाः स्युः ।। ६७ ॥
___ अधिकालाप उद्देशकः । राजहंसनिकरस्य यत्पदं. साष्टषष्टिसहितस्य चैतयोः । संयुतिर्दिकविहीनषट्कृतिस्तद्गणे कति मरालका वद ॥ ६८ ॥
इति मूलमिश्रजातिः ॥
अथ भिन्नदृश्यजातौ सूत्रम्-- दृश्यांशोने रूपे भागाभ्यासेन भाजिते तत्र । यल्लब्धं तत्सारं प्रजायते भिन्नदृश्यविधौ ॥ ६९ ॥
-
| B reads योग:
For Private and Personal Use Only