________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
58
प्रकीर्णकव्यवहारः. अथ द्विरग्रशेषमूलजातौ सूत्रम्मूलं दृश्यं च भजेदंशकपरिहाणरूपघातेन । पूर्वाग्रमग्रराशौ क्षिपेदतश्शेषमूलविधिः ॥ ४७ ॥
अत्रोद्देशकः । मधुकर एको दृष्टः रवे पझे शेषपञ्चमचतुर्थो । शेषव्यंशो मूलं द्वा'वाने ते कियन्तः स्युः ॥ ४८ ॥ सिंहाश्चत्वारोऽद्रौ प्रतिशेषषडंशकादिमार्धान्ताः । मूले चत्वारोऽपि च विपिने दृष्टाः कियन्तस्ते ॥ ४९ ॥
तरुणहरिणीयुग्मं दृष्टं द्विसङ्गाणित वने कुधरनिकटे शेषाः पञ्चांशकादिदलान्तिमाः । विपुलकलमक्षेत्रे तासां पदं त्रिभिराहतं कमलसरसीतीरे तस्थुर्दशैव गणः कियान् ॥ ५० ॥
इति द्विरग्रशेषमूलजातिः ॥
अथांशमूलजातौ सूत्रम्भागगुणे मूलाग्रे न्यस्य पदप्राप्तदृश्यकरणेन । यल्लब्धं भागहृतं धनं भवेदंशमूलविधौ ॥ ५१ ॥ अन्यदपि मूत्रम्दृश्यादशकभक्ताच्चतुर्गुणान्मूलकृतियुतान्मूलम् । सपदं दलितं वर्गितमंशाभ्यस्तं भवेत् सारम् ।। ५२ ॥
1 B reads द्वौ चाने,
For Private and Personal Use Only