________________
Shri Mahavir Jain Aradhana Kendra
52
www.kobatirth.org
गणितसारसङ्ग्रहः.
अत्र न किञ्चिदपि प्रतिदृष्टं तत्प्रमितिं कथय प्रिय शीघ्रम् ।। ३९ ।। इति मूलजातिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ शेषमूलजाती सूत्रम् -
पददलवर्गयुताग्रान्मूलं सप्राक्पदार्धमस्य कृतिः ।
दृश्ये मूलं प्राप्ते फलमिह भागं तु भागजातिविधिः ॥ ४० ॥ अत्रोद्देशकः ॥
गजयूथस्य त्र्यंश'श्शेषपदं च त्रिसङ्गुणं सानौ । सरसि त्रिहस्तिनीभिर्नागो दृष्टः कतीह गजाः ॥ ४१ ॥ निर्जन्तुकप्रदेशे नानाद्रुमषण्डमण्डितोद्याने । आसीनानां यमिनां मूलं तरुमूलयोगयुतम् ॥ ४२ ॥ शेषस्य दशमभागो मूलं नवमोऽथ मूलमष्टांशः । मूलं सप्तममूलं षष्ठो मूलं च पञ्चमो मूलं ॥ ४३ ॥ एते भागाः काव्यप्रवचनधर्मप्रमाणनयविद्याः । वादच्छन्दोज्यौतिषमन्त्रालङ्कारशब्दज्ञाः || ४४ ॥ द्वादशतपःप्रभावा द्वादश भेदाङ्गशास्त्र कुशलधियः । द्वादश मुनयो दृष्टाः कियती मुनिचन्द्र यतिसमितिः ॥ ४५ ॥ मूलानि पश्च चरणेन युतानि सानौ
शेषस्य पञ्चनवमः करिणां नगाग्रे ।
मूलानि पञ्च सरसीजवने रमन्ते नद्यास्तटे षडिह ते द्विरदाः कियन्तः ॥ ४६ ॥ इति शेषमूलजातिः ॥
• B reads शेषस्य पद त्रिगुणं.
For Private and Personal Use Only