SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः. किञ्जलकपुञ्जपिञ्जरकञ्जवने मधुकरास्त्रयस्त्रिंशत् । दृष्टा भ्रमरकुलस्य प्रमाणमाचक्ष्व गणक त्वम् ॥ २७ ॥ गोयूथस्य क्षितिभृति दलं तद्दलं शैलमूले षट् तस्यांशा विपुलविपिने पूर्वपूर्वार्धमानाः । सन्तिष्ठन्ते नगरनिकटे धेनवो दृश्यमाना द्वात्रिंशत् त्वं वद मम सरवे गोकुलस्य प्रमाणम् ॥ २८ ॥ इति भागजात्युद्देशकः ॥ शेषजातावुद्देशकः । षड्भागमाम्रराशे राजा शेषस्य पञ्चमं राज्ञी। तुर्यत्र्यंशदलानि त्रयोऽग्रहीषुः कुमारवराः ॥ २९ ॥ शेषाणि त्रीणि चूतानि कनिष्ठो दारको ग्रहीत् । तस्य प्रमाणमाचक्ष्व प्रकीर्णकविशारद ॥ ३० ॥ चरति गिरौ सप्तांशः करिणां षष्ठादिमार्धपाश्चात्याः । प्रतिशेषांशा विपिने षड्दृष्टास्सरासि कति ते स्युः ॥ ३१ ॥ कोष्ठस्य लेभे नवमांशमेकः परे ऽष्ट भागादिदलान्तिमांशान । शेषस्य शेषस्य पुनः पुराणा दृष्टा मया द्वादश तत्प्रमा का ॥ ३२ ।। इति शेषजात्युद्देशकः ॥ अथ मूलजातौ सूत्रममूला(ग्रे छिन्द्यादंशोनैकेन युक्तमूलकतेः । दृश्यस्य पदं सपदं वर्गितमिह मूलजातौ स्वम् ॥ ३३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy