________________
Shri Mahavir Jain Aradhana Kendra
42
www.kobatirth.org
गणितसारसङ्ग्रहः.
सप्ताष्टौ नवदशमाषकान् सपादान् दवा ना जिननिलये चकार पूजाम् ।
उन्मीलत्कुरवककुन्दजातिमल्लीमालाभिर्गणक वदाशु तान् समस्य ॥ ११७ ॥
भागभागानुबन्ध उद्देशकः ।
स्त्वत्र्यंशपादसंयुक्तं दलं पचशकोऽपि च । त्र्यंशस्वकीयपष्ठार्धसहितसती कियत् ॥ ११८ ॥
त्र्यंशाद्यंशकसप्तमांशचरमै स्स्वैरन्वितादर्धतः पुष्पाण्यर्धतुरीयपञ्चनवर्मस्वीयैर्युतात्सप्तमात् ।
गन्धं पञ्चमभागतोऽर्धचरणत्र्यंशांश कैर्मिश्रिताद्धूपं चार्चयितुं नरो जिनवरानानेष्ट किं तद्युतौ ॥ ११९ ॥ स्वदलसहितं पादं स्वत्र्यंशकेन समन्वित - द्विगुणनवमं स्वाष्टांशत्र्यंशकार्धविमिश्रितम् ।
नवममपि च स्वाष्टांशाद्यर्वपश्चिमसंयुतं निजदलयुतं त्र्यंशं संशोधय त्रितयात्प्रिय ॥ १२० ॥
स्वदलसहित पादं सस्वपादं दशांश निजदलयुतषष्ठं सस्वकत्र्यंशमर्धम् । चरणमपि समेत स्वविभागं समस्य प्रिय कथय समग्रप्रज्ञ भागानुबन्धे ॥ १२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अत्राग्राव्यक्तानयनसूत्रम् - लब्धात्कल्पितभागा रूपानीतानुबन्धफलभक्ताः । क्रमशः खण्डसमानास्तेऽज्ञातांशप्रमाणानि ॥ १२२ ॥
' B स्वचरणाद्यर्धान्तिमैः.
For Private and Personal Use Only