________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
48
कलासवर्णव्यवहारः.
अत्रोद्देशकः । काश्रित्स्वकैरर्धतृतीयपादैरंशोऽपरः पञ्चचतुर्नवांशैः । अन्यस्त्रिपञ्चाशनवांशकार्धेयुतो युती रूपमिहाशकाः के ॥ १२३ ॥ कोऽप्यंशस्वार्धपञ्चांशत्रिपादनवमैर्युतः । अर्धं प्रजायते शीघ्रं वदाव्यक्तप्रमां प्रिय ॥ १२४ ॥ शेषेष्टस्थानाव्यक्तभागानयनसूत्रम् - लब्धात्कल्पितभागासवर्णितैर्व्यक्तराशिभिर्भक्ताः । क्रमशो रूपविहीनारवेष्टपदेष्वविदितांशास्स्युः ।। १२५ ॥
इति भागानुबन्धजातिः । अथ भागापवाहजातौ सूत्रम्-- हरहतरूपेष्वंशानपनय भागापवाहजातिविधौ । 'गुणयाग्रांशच्छेदावंशोनच्छेदहाराभ्याम् ॥ १२६ ॥
रूपभागापवाह उद्देशकः । ध्यष्टचतुर्दशकर्षाः पादार्धद्वादशांशषष्ठोनाः । सवनाय नरैर्दत्तातीर्थकतां तद्युतौ किं स्यात् ॥ १२७ ।। त्रिगुणपाददलत्रिहताष्टमैविरहिता नव सप्त नव क्रमात् ।
.
B गुण येदग्रांशहरी रहितांशच्छेदहाराभ्याम् ।
6-A
For Private and Personal Use Only