________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः दलदलदलसप्तांशं व्यंशव्यंशकदलार्धदलभागम् । अर्धव्यंशव्यंशकपञ्चाशं पञ्चमांशदलम् ।। १०१ ॥ क्रीतं पणस्य दत्त्वा कोकनदं कुन्दकेतकीकुमुदम् । जिनचरणं प्रार्चयितुं प्रक्षिप्यैतान् फलं ब्रूहि ॥ १०२ ॥ रूपाधू त्र्यंशकार्धाधं पादसप्तनवांशकम् । द्वित्रिभागद्विसप्तांशं द्विसप्तांशनवांशकम् ॥ १०३ ॥ दत्त्वा पणद्वयं कश्चिदानैषीन्नूतनं घृतम् । जिनालयस्य दीपार्थ शेषं किं कथय प्रिय ॥ १०४ ॥ व्यंशाद्विपञ्चमांशस्तृतीयभागात् त्रयादेशषडशः । पञ्चाष्टादशभागात् त्रयोदशांशोऽष्टमान्नवमः ॥ १०५ ॥ नवमाच्चतुस्त्रयोदशभागः पञ्चांशकात् त्रिपादार्धम् । सङ्क्षिप्याचक्ष्वैतान प्रभागजातौ श्रमोऽस्ति यदि ॥ १०६ ॥ अत्रैकाव्यक्तानयनसूत्रम्-- रूपं न्यस्याव्यक्ते प्राग्विधिना यत्फलं भवेत्तेन । भक्तं परिदृष्टफलं प्रभागजातौ तदज्ञातम् ॥ १०७ ।।
अत्रोद्देशकः । राशेः कुतश्चिदष्टांशस्यशपादोऽर्धपञ्चमः । षष्ठत्रिपादपञ्चाशः किमव्यक्तं फलं दलम् ॥ १०८ ॥ अनेकाव्यक्तानयनसूत्रम्कृत्वाज्ञातानिष्टान् फलसदृशी तद्युतिर्यथा भवति । विभजेत पृथग्व्यक्तैरविदितराशिप्रमाणानि ॥ १०९ ॥
For Private and Personal Use Only