________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
39
कलासवर्णव्यवहारः.
39 अत्रोद्देशकः। त्रिकपञ्चकत्रयोदशसप्तनवैकादशांशराशीनाम् । के हाराः फलमेकं पञ्चांशो वा चतुर्गुणितः ।। ९४ ।। एकसूत्रोत्पन्नरूपांशहारैस्सूत्रान्तरोत्पन्नरूपांशहारैश्च फले रूपे छेदोत्पत्तौ नष्टभागानयने च सूत्रम्---
वाञ्छितसूत्रजहारा हरा भवन्त्यन्यसूत्रजहरघ्नाः । दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ॥ ९५ ॥
अत्रोद्देशकः । परहतिदलनविधानात्रयोदश स्वपरसङ्गणविधानात् । भागाचत्वारोऽतः कति भागास्स्युः फले रूपे ॥ ९६ ॥ . प्राक्स्वपरहतविधानात्सप्तस्वासन्नपरगुणार्धविधानात् । भागास्त्रितयश्चातः कति भागास्स्युः फले रूपे ॥ ९७ ।। रूपांशका द्विषट्कद्वादशविंशतिहरा विनष्टोऽत्र । पञ्चमराशी रूपं सर्वसमासस्स राशिः कः ॥ ९८ ॥
इति भागजातिः । प्रभागभागभागजात्योस्सूत्रम्अंशानां सङ्गणनं हाराणां च प्रभागजातौ स्यात् । गुणकारोंऽशकराशेहरिहरो भागभागजातिविधौ ॥ ९९ ॥
प्रभागजातावुद्देशकः । रूपाधं त्र्यंशाधं व्यंशार्धा) दलार्धपञ्चांशम् । पञ्चांशार्धत्र्यंशं तृतीयभागार्धसप्तांशम् ॥ १०० ॥
For Private and Personal Use Only