________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38
गणितसारसङ्ग्रहः __एकांशकयोरनेकांशयोश्च एकांशेऽनेकांशेऽपि फले छेदोत्पत्तीप्रथम सूत्रम'इष्टगुणांशोऽन्यांशप्रयुतः शुद्ध हृतः फलांशेन । इष्टाप्तयुतिहरनो हरः परस्य तु तदिष्टहतिः ॥ १७ ॥
अत्रोद्देशकः । रूपांशकयो राश्योः को स्यातां हारकौ युतिः पादः ।
पञ्चांशो वा द्विहतस्सप्तकनवकांशयोश्च वद ॥ ८ ॥ द्वितीयसूत्रम्-- फलहारताडितांशः परांशसहितः फलांशकेन हृतः । स्यादेकस्यच्छेदः फलहरगुणितोऽयमन्यस्य ॥ ८९ ॥
__ अत्रोद्देशकः । राशिद्वयस्य को हारावेकांशस्यास्य संयुतिः । द्विसप्तांशो भवेद्दाह षडष्टांशस्य च प्रिय ॥ ९० ॥ अर्धव्यंशदशांशकपञ्चदशांशकयुतिर्भवेद्रूपम् । त्यक्ते पञ्चदशांशे रूपांशावत्र कौ योज्यौ ॥ ९१ ॥ दलपादपञ्चमांशकविंशानां भवति संयुती रूपम् । सप्तैकादशकांशी को योज्याविह विना विंशम् ॥ ९२ ॥ युग्मान्याश्रित्यच्छेदोत्पत्तौ सूत्रम्--
युग्मप्रमितान् भागानेकैकांशान् प्रकल्प्य फलराशेः । तेभ्यः फलात्मकेभ्यो द्विराशिविधिना हरास्साध्याः ॥ ९३ ॥
1 P and B add as another reading.
शुद्धं फलांशभक्त: स्वान्यांशयुतो निजेष्टगुणितांशः ।
For Private and Personal Use Only