________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलासवर्णव्यवहारः. एकांशकानामेकांशेऽनेकांशे च फले छेदोत्पत्तौ सूत्रम्
सेष्टो हारो भक्तः स्वांशेन निरग्रमादिमांशहरः । तद्युतिहाराप्तेष्टः शेषोऽस्मादित्थमितरेषाम् ।। ८० ॥
अत्रोद्देशकः । त्रयाणां रूपकांशानां राशीनां के हरा वद । फलं चतुर्थभागस्स्याच्चतुर्णां च त्रिसप्तमम् ॥ ८१ ॥ ऐकांशानामनेकांशानां चानेकांशे फले छेदोत्पत्ता सूत्रम्इष्टहता दृष्टांशाः फलांशसहशो यथा हि तद्योगः । निजगुणहृतफलहारस्तहारो भवति निर्दिष्टः ।। ८२ ॥
अत्रोद्देशकः । 'एककांशेन राशीनां त्रयाणां के हरा वद । द्वादशाप्ता त्रयोविंशत्यशंका च युतिर्भवेत् ।। ८३ ।। . त्रिसप्तकनवांशानां त्रयाणां के हरा वद ।।
यूनपञ्चाशदाप्ता त्रिसप्तत्यंशा युतिर्भवेत् ।। ८४ ।। एकांशकयो राश्योरेकांशे फले छेदोत्पत्तौ सूत्रम्वाञ्छाहतयुतिहारश्छेदः स व्येकवाञ्छयाप्तोऽन्यः । फलहारहारलब्धे स्वयोगगुणिते हरौ वा स्तः ॥ ८५ !!
अत्रोद्देशकः । राश्योरेकांशयोश्छेदी कौ भवेतां तयोर्युतिः । षडशो दशभागो वा ब्रूहि त्वं गणितार्थवित् ॥ १६ ॥
1Stanzas 83 and 84 are omitted in B.
For Private and Personal Use Only