SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्घहः एकांशद्वानां राशीनां युतावंशाहारस्याधिक्ये सत्यंशोत्पादक सूत्रम्-- समहारकांशकयुतिहृतयुत्यंशोऽश एकटद्धीनाम् । शेषमितरांशयुतिहतमन्यांशोऽस्त्येवमा चरमात् ।। ७३ ।। अत्रोद्देशकः । नवकदशैकादशहतराशीनां नवतिनवशतीभक्ता । न्यूनाशीत्यष्टशती संयोगः केऽशकाः कथय ।। ७४ ।। 'छेदोत्पत्तौ सूत्रम्-- रूपांशकराशीनां रूपाद्यास्त्रिगुणिता हराः क्रमशः । द्विद्विव्यंशाभ्यस्तावादिमचरमौ फले रूपे ॥ ७५ ॥ अत्रोद्देशकः । पञ्चानां राशीनां रूपांशानां युतिर्भवेद्रूपम् । षण्णां सप्तानां वा के हाराः कथय गणितज्ञ ॥ ७६ ॥ विषमस्थानानां छेदोत्पत्ता सूत्रम्-- एकांशकराशीनां व्याद्या रूपोत्तरा भवन्ति हराः । स्वासन्नपराभ्यस्तास्सर्वे दलिताः फले रूपे ॥ ७७ ॥ एकाशानामनेकांशानां चैकांशे फले छेदोत्पत्तौ सूत्रमलब्धहरः प्रथमस्यच्छेदः सस्वांशकोऽयमपरस्य । प्राक् स्वपरेण हतोऽन्त्यः स्वांशेनैकांशके योगे ॥ ७८ ॥ ___ अत्रोद्देशकः । सप्तकनवकत्रितयत्रयोदशांशप्रयुक्तराशीनाम् । रूपं पादः षष्ठः संयोगाः के हराः कथय ॥ ७९ ॥ 1 B सदृशवृद्ध्यंशराशीनां अंशोत्पादकसूत्रम् । For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy