________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
गणितसारसङ्ग्रहः
शेषगच्छस्याद्यानयनसूत्रम् -
प्रचया|नः प्रभवो युतश्चयघ्नेष्टपदचयाधीभ्याम् । ' शेषस्य पदस्यादिश्चयस्तु पूर्वोक्त एव भवेत् ॥ ४६ ॥ गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्र शेषपदे । इष्टपदमितगुणाहतिगुणितप्रभवो भवेद्वकम् ॥ ४७ ॥
__ अत्रोद्देशकः । पादोत्तरं दलास्यं पदं त्रिपादांशकस्समुद्दिष्टः । खेष्टं चतुर्थभागः किं व्युत्कलितं समाकलय ॥ १८ ॥ प्रभवोऽध पञ्चाशः प्रचयो द्वित्र्यंशको भवेद्गच्छः । पञ्चाष्टांशस्वेष्टं 'पदमृणमाचक्ष्व गणितज्ञ ।। ४९ ॥ आदिश्चतुर्थभागः प्रचयः पञ्चांशकास्त्रिपञ्चांशः । गच्छो वाञ्छागच्छो दशमो व्यवकलितमानं किम् ॥ ५० ॥ त्रिभागौ द्वौ वकं पञ्चमांशश्चयस्स्यात् पदं त्रिनः पादः पञ्चमस्खेष्टगच्छः । षडंशस्सप्तांशो वा व्ययः को वद त्वम् कलावास प्रज्ञाचन्द्रिकाभास्वदिन्दो ॥ ५१ ॥ द्वादशपदं चतुर्थोत्तरमोनपञ्चकं वदनम् । त्रिचतुःपञ्चाष्टेष्टपदानि व्युत्कालतमाकलय ।। ५२ ।।
! प्रचयगुणितेष्टगच्छस्सादिः प्रभवः पदस्य शेषस्य ।
वयस्स्यादिष्टस्य प्राक्तनादेव ॥ * M च चतुर्भागः.
किं व्युत्कलितं समाकलय.
For Private and Personal Use Only