________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9.8
गणितसारसग्रहः भिन्नघने परिदृष्टघनानां मूलमुदग्रमते वद मित्र । ब्यूनशतद्वययुग्द्विसहस्याश्रापि नवप्रहतत्रिहतायाः ॥ २१ ॥ इति भिन्नवर्गवर्गमूलघनघनमूलानि ।।
भिन्नसङ्कलितम् । भिन्नसङ्कलिते करणसूत्रं यथा -- पदमिष्टं प्रचयहतं द्विगुणप्रभवान्वितं चयेनोनम् । गच्छाधेनाभ्यस्तं भवति फलं भिन्नसङ्कलिते ॥ २२ ॥
. अत्रोद्देशकः । द्विव्यंशष्षड्भागस्त्रिचरणभागो मुरवं चयो गच्छः । द्वौ पञ्चमौ त्रिपादो द्वित्र्यंशोऽन्यस्य कथय किं वित्तम् ।। २३ ।। आदिः प्रचयो गच्छस्त्रिपञ्चमः पञ्चमस्त्रिपादांशः । सर्वांशहरौ वृद्धौ द्वित्रिभिरा सप्तकाच्च का चितिः ।। २४ ।। इष्टगच्छस्यायुत्तरवर्गरूपघनरूपधनानयनसूत्रम् --- पदमिष्टमेकमादिव्येकेष्टदलोद्धृतं मुरवोनपदम् । प्रचयो वित्त तेषां वर्गों गच्छाहतं बृन्दम् ॥ २५ ॥
अत्रोद्देशकः । पदमिष्टं द्विव्यंशो रूपेणांशो हरश्च संवृद्धः । यावद्दशपदमेषां वद मुरवचयवर्गबृन्दानि ॥ २६ ॥
.
1 This stanza is not found in M.
For Private and Personal Use Only