________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलासवर्णव्यवहारः.
अत्रोद्देशकः । पञ्चकसप्तनवानां दलितानां कथय गणक वर्ग त्वम् । षोडशविंशतिशतकद्विशतानां च त्रिभक्तानाम् ॥ १४ ॥ त्रिकादिरूपवयवृद्धयोंऽशा द्विकादिरूपोत्तरका हराश्च । पदं मतं द्वादश वर्गमेषां वदाशु मे त्वं गणकाग्रगण्य ॥ १५ ॥ पादनवांशकषोडशभागानां पञ्चविंशतितमस्य । षट्त्रिंशद्भागस्य च कृतिमूलं गणक भण शीघ्रम् ॥ १६ ॥ भिन्ने वर्गे राशयो वर्गिता ये तेषां मूलं सप्तशत्याश्च किं स्यात् । व्यष्टोनायाः पञ्चवौद्धताया ब्रूहि त्वं मे वर्गमूलं प्रवीण ॥ १७ ॥ अर्धत्रिभागपादाः पञ्चांशकषष्ठसप्तमाष्टांशाः । दृष्टा नवमश्चैषां पृथक् पृथगब्रूहि गणक घनम् ॥ १८ ॥ त्रितयादिचतुश्चयकोंऽशगणो द्विमुखहिचयोऽत्र हरप्रचयः । दशकं पदमाशु तदीयघनं कथय प्रिय सूक्ष्ममते गणिते ॥ १९ ॥ शतकस्य पञ्चविंशस्याष्टविभक्तस्य कथय घनमूलम् । नवयुतसप्तशतानां विशानामष्टभक्तानाम् ॥ २० ॥
IM सप्तशतस्यापि सने व्यकोनत्रिंशकाएकाप्तस्य ॥
For Private and Personal Use Only