________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः
अत्रोद्देशकः । द्विमुखस्त्रिचयो गच्छश्चतुर्दश खेप्मितं पदं सप्त । अष्टनवषट्रपञ्च च किंव्युत्कालतं समाकलय ॥ १११ ।
षडादिरष्टौ प्रचयोऽत्र षटुतिः पदं दश द्वादश षोडशेप्सितम् । मुखादिरन्यस्य तु पञ्चपञ्चकं
शतद्वयं ब्रूहि शतं व्ययः कियान् ॥ ११२ ॥ षड्डनमानो गच्छः प्रचयोऽष्टौ द्विगुणसप्तकं वक्रम् । सप्तत्रिंशत्वेष्टं पदं समाचक्ष्व फलमुभयम ॥ ११३ ॥ अष्टकृतिरादिरुत्तरमूनं चत्वारि षोडशात्र पदम् । इष्टानि तत्त्वकेशवरुद्रार्कपदानि किं शेषम् ॥ ११४ ॥
गुणव्युत्कलितस्योदाहरणमचतुरादिद्विगुणात्मकोत्तरयुतो गच्छश्चतुर्णा कृतिर्दश वाञ्छापदमङ्कसिन्धुरगिरिद्रव्यन्द्रियाम्भोधयः ।। कथय व्युत्कलित फलं सकलसद्भूजाग्रिमं व्याप्तवान् करणस्कन्धवनान्तरं गणितविन्मत्तेभविक्रीडितम् ॥ ११५ ॥ इति परिकर्मविधावष्टमं व्युत्कलितं समाप्तम् ।।
इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ परिकर्मनामा प्रथमो व्यवहारः समाप्तः ॥
1M प्रा.
For Private and Personal Use Only