________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयः कलासवर्णव्यवहारः ।
'त्रिलोकराजेन्द्रकिरीटकोटिप्रभाभिरालीदपदारविन्दम् । निर्मूलमुन्मूलितकर्मवृक्षं जिनेन्द्रचन्द्रं प्रणमामि भक्त्या ॥१॥
इतः परं कलासवर्ण द्वितीयव्यवहारमुदाहरिष्यामः ॥
भिन्नप्रत्युत्पन्नः । तत्र भिन्नप्रत्युत्पन्ने करणसूत्रं यथागुणयेदंशानंशैारान् हारैर्घटेत यदि तेषाम् । वजापवर्तनविधिविधाय तं भिन्नगुणकारे ॥ २ ॥
अत्रोद्देशकः । शुण्ठ्याः पलेन लभते चतुर्नवांशं पणस्य यः पुरुषः । किमसौ ब्रूहि सरवे त्वं त्रिगुणेन पलाष्टभागेन ॥ ३ ॥ मरिचस्य पलस्यार्घः पणस्य सप्ताष्टमांशको यत्र । तत्र भवत्किं “मूल्यं पलषट्पञ्चांशकस्य वद ॥ ४ ॥ कश्चित्पणेन लभते त्रिपञ्चभागं पलस्य पिप्पल्याः । नवभिः पर्दिभक्तैः किं गणकाचक्ष्व गुणयित्वा ॥ ५ ॥ क्रीणाति पणेन वणिग्रजीरकपलनवदशांशकं यत्र । तत्र पणैः पश्चाधैः कथय त्वं किं समग्रमते ॥ ६ ॥ ध्यादयो द्वितयवृद्धयोंऽशकाज्यादयो द्वयचया हराः पुनः । ते द्वये दशपदाः कियत्फलं ब्रूहि तत्र गुणने द्वयोईयोः ॥ ७ ॥
. इति भिन्नगुणकारः।
1 This stanza is omitted in P.
M मौ.
For Private and Personal Use Only